________________
[२७८] हैमशब्दानुशासनस्य सन् च सेटौ किद्वद्वा स्यातां, न तु यवन्तात् । द्युतित्वा, द्योतित्वा । दिद्युतिपते, दिद्योनिषते । लिखित्वा, लेखित्वा । लिलिखिपति, लिलेखिषति । वाविति किम् ? वार्तिस्वा । व्यञ्जनादेरिति किम् । ओषित्वा । अय्व इति किम् ? देवित्वा ॥ २५ ॥ उति शवोऽद्भयः क्तौ भावाऽऽरम्भ। ४।३ । २६ । __ उति उपान्त्ये सति शवहेभ्यो अदादिभ्यश्च परौ भा. वाऽऽरम्भयोः क्तक्तवतू सेटौ वा किद्वत् स्याताम् । कुचितम् , कोचितमनेन । प्रकुचितः, प्रकोचितः । प्रकुचि. तवान् , प्रकोचितवान् । रुदितम्, रोदितमेभिः । प्ररुदितः, प्ररोदितः। प्ररुदितवान्, प्ररोदितवान् । उतीति कि. म् ? वितितमेभिः । शवोद्भय इति किम् ? प्रगुधितः । भावारम्भ इति किम् ? रुचितः ।। २६॥
न डीङ्-शीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि
मिदः । ४ । ३ । २७ । एभ्यः परौ सेटौ क्तक्तवतू किद्वन्न स्याताम् । डयितः, डयितवान् । शयितः, शयितवान् । पवितः, पवितवान् । प्रधर्षितः प्रधर्षितवान् । प्रश्वेदितः,प्रक्ष्वेदितवान् । प्रस्वे. दितः, प्रस्वेदितवान् । प्रमेदितः प्रमेदितवान् । सेटावित्येव? डीनः, डीनवान् ॥ २७ ॥
मृषः क्षान्तौ । ४।३।२८। क्षमाऽर्थात् मृपः सेटौ तक्तवतू किद्वन्न स्याताम् ।। मर्षितः, मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ॥ २८ ॥