________________
[२७२] हैमशब्दानुशासनस्य
म-वि अस्याः । ४ । २ । ११३ । धातोर्विहिते मादौ वादौ चाऽत आ दीर्घः स्यात् , पचामि, पचावः, पचामः ॥ ११३ ॥
अनतोऽन्तोऽद् आत्मने।४।२।११४ ।
अनतः परस्याऽऽत्मनेपदस्थस्यान्तोऽत् स्पात् । चिन्वते । आत्मनेपद इति किम् ? चिन्वति । अनत इति किम् ? पचन्ते ॥ ११४॥
शीडो रत् । ४ । २ ॥११५।। शीङः परस्याऽऽत्मनेपदस्थस्यान्तो रत् स्यात् । शेरते ॥ ११५ ॥
वेत्तेर्नवा । ४ । २ । ११६ । __वेत्तेः परस्यात्मनेपदस्थस्यान्तो रद् वा स्यात् । संविद्रते, संविदते ॥ ११६॥
तिवां णवः परस्मै। ४।२।११७ । वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासंख्यं वा स्युः । वेद, विदतुः, विदुः, वेत्थ, विदथुः, विद, वेद, विद्व, विद्म । पले, वेत्तीत्यादि
ब्रूगः पञ्चानां पञ्चाऽऽहश्च । ४ । २ । ११८।
गः परेषां तिवादीनां पञ्चानां यथासंख्यं पञ्च णवा दयो वा स्युः, तद्योगे बेग आहश्च । आह, आहतुः, आहुः, आत्थ, आहथुः। पक्षे, ब्रवीतीत्यादि ॥११८॥