SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलधुवृत्तिः [२७१] वेगे सर्धा । ४ । २ । १०७ । सर्तेर्वेगे गम्ये शिति धात् स्यात् , अत्यादौ । धावति। वेग इति किम् ? धर्ममनुसरति ॥ १०७॥ श्रौति-कृवु-धिवु-पा-घा-ध्मा-स्था-म्ना-दाम-दृशिअतिशद-सदः श-कृ-धि-पिब-जिघ-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-शीय-सीदम् । ४।२।१०८ । एषां शित्यत्यादौ यथासंख्यं श्रादयः स्युः शृणु, कृणु, धिनु, पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, शीयते, सीद ॥ १०८ ॥ क्रमो दीर्घः परस्मै । ४ । २ । १०९ । क्रमे परस्मैपदनिमित्त शिति दीर्घः स्यात् , अत्यादौ । काम, क्राम्यति । परस्मैपद् इति किम् ? आक्रमते सूर्यः ॥१०९॥ . ष्ठिवु-क्लमु-आचमः । ४।२। ११०। ___ एषां शित्यत्यादौ दीर्घः स्यात् । ष्ठीव, क्लाम, आ चाम । आङिति किम् ? चम ॥ ११० ॥ .. . शमसप्तकस्य श्ये । ४ । २ । १११ । शमादीनां सप्तानां श्ये दीर्घः स्यात् । शाम्य, दाम्य, ताम्य, भ्राम्य, श्राम्य, क्षाम्य, माद्य । इये इति किम् ? भ्रमति । अत्यादावित्येव ? शंशन्ति ॥ १११ ॥ प्टिव्-सिवोऽनटि वा । ४।२ । ११२ । ष्ठिसिवोरनटि दीर्घो वा स्यात् । निष्ठीवनम्, निप्ठेवनम् । सीवनम् , सेवनम् ॥ ११२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy