SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ [ २७० ] हैमशब्दानुशासनस्य हाकः | ४ | २ | १०० | हाको व्यञ्जनादौ शित्यविति आत हर्वा स्यात् । जहितः, जहीतः ॥ १०० ॥ आच हौ । ४ । २ । १०१ । हाको हौ आत् इश्व वा स्यात् । जहाहि जहिहि, जहीहि ॥ १०१ ॥ यि लुक् | ४ | २ | १०२ । यादौ शिति हाक आ लुक् स्यात् । जह्यात् ॥ १०२ ॥ ओतः श्ये । ४ । २ । १०३ | धातोरोतः श्ये लुक् स्यात् । अवद्यति । श्य इति किम् ? गौरिवाचरति गवति ॥ १०३ ॥ जा ज्ञा- जनोत्यादौ । ४ । २ । १०४ । 1 ज्ञाजनोः शिति जाः स्यात्, नत्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ? जोज्ञाति । जञ्जन्ति ॥ १०४ ॥ प्वोदेर्हस्वः । ४ । २ । १०५ । वादेः शिति अत्यादौ ह्रस्वः स्यात् । पुनाति, लुनाति । प्वादेरिति किम् ? व्रीणाति ॥ १०५ ॥ गम् - इषद्-यमः छः । ४ । २ । १०६ । एषां शित्यत्यादौ छः स्यात् । गच्छति, इच्छति, यच्छति, आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ॥ १०५ ॥ १ जाज्ञाति जञ्जन्ति इति रूपयुग्मं ज्ञा· जनोर्यङ्कलपि वेद्यम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy