________________
स्वोपज्ञलघुवृत्तिः
[ २६९ ] :
अन्तो नो लुक् । ४ । २ । ९४ । द्वथुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति, जुह्वत्, जक्षति, जक्षत्, दरिद्रति, दरिद्रत् ॥ ९४ ॥
'शौ वा । ४ । २ । ९५ ।
द्वयुक्तजक्षपञ्चकात् परस्यान्तो नः शिविषये लुगू वा स्यात् । ददति, ददन्ति कुलानि । जक्षति, जक्षन्ति । दरिद्रति दरिद्रन्ति ॥ ९५ ॥
श्नश्चाऽऽतः । ४ । २ । ९६ |
द्वयुक्तजक्षपञ्चतः श्नश्च शित्यवित्यातो लुक् स्यात् मिमते, दरिद्रति क्रीणन्ति । अवितीत्येव ? अजहाम्, अक्रीणाम् ॥ ९६ ॥
एषामीर्व्यञ्जनेऽदः । ४ । २ । ९७ ।
द्वयुक्तजक्षपञ्चतः श्रश्वातः शित्यविति व्यञ्जनादावी: स्यात्, न तु दासंज्ञस्य । मिमीते, लुनीतः । व्यञ्जन इति किम् ? मिमते । अद इति किम् ? दत्तः, धत्तः ॥९७॥ इर्दरिद्रः । ४ । २ । ९८ ।
दरिद्रो व्यञ्जनादौ शित्यवित्यात इः स्यात् । दरिद्रितः । व्यञ्जन इत्येव । दरिद्रति ॥ ९८ ॥
भियो नवा । ४ । २ । ९९ ।
मियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । विभितः, बिभीतः ।। ९९ ।।
१ " नपुंसकस्य शि. " (१-४-५५ पृष्ठ ३६ ) इति सूत्रोक्ते शिप्रत्यये परे तेन ददति, ददन्ति इत्यादि रूपद्वयं क्लीबे जसि शसि च वेद्यम् ।