________________
-
[२६८] हैमशब्दानुशासनस्य सुनुमः । अवितीति किम् ? सुनोमि । असंयोगादित्येव ? तक्ष्णुवः॥ ८७ ॥
. कृगो यि च । ४ । २ । ८८ । कृगः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्युः, कुर्वः, कुर्मः ॥ ८८॥
अतः शित्युत् । ४ । २। ८९ । शिति अविति य उः, तन्निमित्तस्य कृगोऽत उ स्यात् । कुरु । अवितीत्येव १ करोति ॥ ८९ ॥ ३ श्नास्त्योलक् । ४ । २।९।
श्रस्य अस्तेश्चातः शित्यविति लुक् स्यात् । रुन्द्धः, स्तः । अत इत्येव । आस्ताम् ॥ ९० ॥ .
वा दिषातोऽनः 'पुस । ४ । २। ९१ । - द्विष आदन्ताच परस्य शितोवतोऽनः स्थाने पुस् वा स्यात् । अद्विषुः, अद्विषन् । अयुः, अयान् ॥ ९१ ॥
सिज-विदोऽभुवः। ४ । २ । ९२ । सिच्प्रत्यययाद विदश्च धातोः परस्य अनः पुम् स्यात्, न चेद भुवः परः सिन् स्यात् । अकार्षः, अविदुः। अभुव इति किम् ? अभूवन् ॥ ९२ ॥
दयुक्तजक्षपञ्चतः । ४ । २ । ९३ । कृतद्वित्वाद् जक्षपञ्चकाच परस्य शितोवितोऽन: पुस् स्यात्। अजुहवुः, अजक्षुः, अदरिद्रुः, अजागरुः, अधकासुः, अशासुः ॥ ९३ ॥
. १ पुस् इति पकारानुबन्धः "पुस्-पौ (४-३-३) इत्यत्र विशेषणार्थः ।