________________
स्वोपज्ञलघुवृत्तिः _ [२६७] यश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् ॥ ८१ ॥
वित्तं धन-प्रतीतम् । ४ । २ । ८२ । विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते, धनप्रतीतयोः पर्यायश्चेत् । वित्तं धनन् , वित्तः प्रतीतः, धनप्र. तीतमिति किम् ? विन्नः ॥ ८२ ॥
ह-धुटो हेधिः। ४ । २ । ८३ । हो(डन्ताच परस्य हेधिः स्यात्। जुहुधि, विद्धि।।८३॥ शासू-असू-हनः शाधि-एधि जहि। ४।२।०४।
शास्अस्हनां ह्यन्तानां यथासंख्यं शाधिएधिजहयः स्युः । शाधि, एधि, जहि ॥ ८४ ॥
अतः प्रत्ययात् लुक् । ४।२।८५ । धातोः परो योऽदन्तःप्रत्ययस्ततः परस्य हेर्लक् स्यात्। दीव्य । अत इति किम् ? राध्नुहि । प्रत्ययादिति किम् ? पापहि ॥ ८५ ॥ . . असंयोगाद् ओः। ४ । २ । ८६ ।
असंयोगात् परो य उः, तदन्तात् प्रत्ययात् परस्य · हेर्लक् स्यात् । सुनु। असंयोगादिति किम् ? अक्ष्णुहि । उरिति किम् ? क्रीणीहि ॥ ८६ ॥
व-मि अविति' वा । ४ । २ । ८७।
असंयोगात परो य उः, तदन्तस्य प्रत्ययस्य लुग् वा • स्यात्, वमादौ अविति परे । सुन्वः, सुनुवः। सुन्मा,
१ वकार इत्-अनुबन्धो यस्यासौ वित्, यथा तिव्-मित्-तुव्-आनिव इत्यादि, तादृशवितो भिन्ने प्रत्यये परे ।