________________
[२६६] हैमशब्दानुशासनस्य क्षीणकः. क्षितकस्तपस्वी ॥ ७५ ॥ -ही-घ्रा-धा-त्रा-उन्द-नुद-विन्तेर्वा । ४ । २१७६ ।
एभ्यः परस्य क्तयोस्तो न् वा स्यात् । ऋणम्, ऋतम् । हीणः ह्रीतः। हीणवान्, हीतवान् । घ्राणः, घ्रातः। ध्राणः. ध्रातः ।त्राणः, त्रातः । समुन्नः, समुत्तः । नुन्नः, नुत्तः । विन्नः वित्तः ॥७६ ॥
दु-गोरू च । ४ । २ । ७७।। दुगुभ्यां परस्य क्तयोस्तो नः स्यात्, तद्योगे दुगोरुव । दूनः दूनवान् । गूनः गूनवान् ॥ ७७ ॥
क्षे-शुषि-पचो म-क-वम् । ४ । २ । ७८। । एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान् । शुष्कः शुष्कवान् । पक्वः, पक्ववान् ॥ ७८॥
निर्वाणमवाते । ४ । २ । ७९ । अवाते कर्तरि निपूर्वाद् वातेः परस्य क्तयोस्तो नो निपात्यते । निर्वाणो मुनिः । अवात इति किम् ? निवातो वातः ॥ ७९ ॥ अनुपसर्गाः क्षीबोल्लाघकृश-परिकृश-फुल्लो
स्फुल्ल-संफुल्लाः । ४ । २ । ८० । अनुपसर्गाः क्तान्ता एते निपात्यन्ते।क्षीवा, उल्लाघः कृशः, परिकृशः, फुल्लः,उत्फुल्लः, संफुल्ला। अनुपसर्गा इति किम् ? प्रक्षीवितः ।। ८० ॥
भित्तःशकलम् । ४ । २। ८१ ॥ भिदेः परस्यक्तस्य नत्वाभावो निपात्यते,शकलपर्या