________________
स्वोपज्ञलघुकृत्तिः [२६५] व्यञ्जनान्तस्थातोऽऽख्या-ध्यः। ४ । २ । ७१ ।
ख्याध्यावर्जस्य धातोर्यद्वयञ्जनं, तस्मात् परा यान्तस्था, तस्याः परो य आः, तस्मात् परस्य क्तयोस्तो नः स्यात् । स्त्यानः, स्त्यानवान् । व्यञ्जन इति किम् ? यातः। अन्तस्था इति किम् ? स्नातः। आत इति किम् । च्युतः। धातोर्व्यञ्जनेति किम् ? निर्यातः। अख्याध्य इति किम् ? ख्यातः ध्यातः । आतः परस्येति किम् ? देरिद्रितः ॥७१॥ पू-दिवि-अञ्चे शाऽहाताऽनपादाने । ४।२।७२।
एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्यक्तयोस्तो नः स्यात् । पूनायवाः, आनः, समक्नो पक्षो । नाशाद्यूतानपादान इति किम् ? पूतम्, चूतम्, उदक्तं जलम् ॥७२॥
सेपासे कर्मकर्तरि । ४ । २ । ७३ । सेः परस्य क्तयोस्तो ग्रासे कर्मकर्तरि नः स्यात् । सिनो ग्रासः स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण ॥ ७३ ॥
क्षेःक्षी चाऽध्यार्थे। ४ । २ ७४ । घ्यणोऽर्थो भावकर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोस्तः क्षेः परस्य नः स्यात्, तद्योगे क्षेःक्षीश्च । क्षीणा,क्षीणवान् मैत्रः। अध्यार्थे इति किम् ? क्षितमस्य ।। ७४ ॥
वाऽऽक्रोश-दैन्ये । ४ । २ । ७५ । आक्रोशे दैन्ये च गम्ये क्षेः परस्याऽध्यार्थे क्तयोस्तो न वा स्यात् , तद्योगे क्षीश्च। क्षीणाऽऽयुः, क्षिताऽऽयुर्जाल्मः ।
, “इर्दरिद्रः" (४-२-९८) इति सूत्रेणेकारः । २ पत्र मावे कः ।