SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२७३] आशिषि तु-योस्तातङ् । ४।२।११९ । आशीरर्थयोस्तुयोस्तात वा स्यात्। जीवतात् , जीवतु भवान् । जीवतात् , जीव त्वम् । नन्दतात्, नन्द त्वम् । आशिषीति किम् ? जीवतु ॥ ११९॥ . आतो णव औः । ४.२ । १२० । आतः परस्य णव औः स्यात् । पपौ ।। १२० ॥ आतामाते-आथामाथे आद इः । ४।२।१२१॥ आत् परेषामेषामात स्यात् । पचेता, पोते, पचेथाम्, पचेथे । आदिति किम् ? मिमाताम् ॥ १२१॥ . . यः सप्तम्याः । ४ । २ । १२२ । ___ आत् परस्य सप्तम्या याशब्दस्येः स्यात्। पचेत्, पचेः ॥ १२२ ॥ याम्-युसोः इयम् इयुसौ । ४ । २ १२३। आत् परयोर्याम्युसोर्यथासंख्पमियमियुसौ स्याताम् । पचेयम् , पचेयुः ।। १२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ ४ ॥२॥ water १कारो गुणप्रतिषेधार्थः । माशिपोऽभावे प्रेरणार्थे तात न भवति, तेनान्यत्र जीवतु इत्येवैकं रूपं भवति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy