________________
[२६०] हैमशब्दानुशासनस्य
जिघ्रतेरिः । ४ । २ । ३८ । घउपान्त्यस्य ङपरे णौ इर्वा स्यात् । अजिघ्रिपत् , अजिघ्रपत् ॥ ३८ ॥
तिष्ठतेः । ४ । २ । ३९। स्थउपान्त्यस्य ङपरे णो इः स्यात् । अतिष्ठिपत् ॥३९॥
ऊद् दुषो णौ । ४ । २।४०। दुरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति ॥ ४०॥
चित्ते वा । ४ । २ । ४१ । चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे ऊद् वा स्यात् । मनो दूषयति, मनो दोषयति मैत्रः ॥४१॥
गोहः स्वरे । ४ । २ । ४२ । कृतगुणस्य गुहेः स्वरादाबुपान्त्यस्योत् स्यात् । निगू. हति । गोह इति किम् ? निजुगुहुः ॥ ४२ ॥
भुवो वः परोक्षाऽद्यतन्योः ।४।२।४३ ।
भुवो पन्तस्योपान्त्यस्य परोक्षाऽद्यतन्योरुत् स्यात् । बभूव, अभूवन । व इति किम् ? बभूवान् , अभूत् ॥४३॥ गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक्
।४।२।४४। एषामुपान्त्यस्याङ्वर्जे स्वरादौ क्ङिति परे लुक् स्यात् । जग्मुः, जघ्नुः, जज्ञे, चख्नुः, जक्षुः । स्वर इति किम् ? गम्यते । अनीति किम् ? अगमत् । क्छिति किम् १ गमनम् ॥४४॥