________________
स्वोपक्षलघुवृत्तिः [२६१] . नो व्यञ्जनस्यानुदितः । ४ । २ । ४५ ।
व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नः क्ङिति परे लुक् स्यात् । स्रस्तः, सनीस्त्रस्यते । व्यञ्जनस्येति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते ॥ ४५ ॥
अयोऽनर्वायाम् । ४ । २ । ४६ । अनार्थस्यैषाश्चरुपान्त्यनः क्रुिति परे लुक् स्यात् । उदक्तमुक्कं कूपात् । अनर्थायामिति किम् ? अश्चिता गुरवः ॥४६॥ लङ्गि कम्प्योरुपतापाङ्गविकृत्योः । ४।२।४७।
अनयोरुपान्त्यनो यथासङ्ख्यमुपतापेऽङ्गविकारे चार्थे विकति परे लुक् स्यात् । विलगिता, विकपितः। उपतापाङ्गविकृत्योरिति किम् ? विलङ्गितः, विकम्पितः ॥४७॥
भञ्जीवां। ४ । २।४८। भञ्जरुपान्त्यनो औ परे लुग् वा स्यात् । अभाजि, अभाजि ॥४८॥
दंश-सञ्जः शवि । ४ । ३। ४९ । अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति, सजति ॥४९॥
अकट-घिनोश्च रजेः। ४ । २ । ५० । रञ्जरकटि घिनणि शवि चोपान्त्यनो लुक् स्यात् । रजकः, रागी, रजति ॥ ५० ॥
- गौ मृगरमणे । ४ । २ । ५१ । रओरुपान्स्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् ।