SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२५९] • उपान्त्यस्यासमानलोपि-शासु-ऋदितो डे 1४।२।३५। ., समानलोपिशास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णो हृस्वः स्यात् । अपीपचत् , मा भवान् अटिटत् । असमानलोपिशास्वृदित इति किम् ? अत्यरराजत् , अशशासत् , मा भवान् ओणिणत् ॥ ३५ ॥ .. भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण-वण भण-श्रण-हवे हेठ-लुट-लुप-लपां-नवा.. ... । ४ । २ । ३६ । एषां उपरे णावुपान्त्यस्य हृस्वो वा स्यात् । अबिभ्रजत् , अवभ्राजत् । अबीभसत्, अबभासत् । अभीभषत्, अबभाषत् । अदीदिपत् । अदिदीपत् । अपीपिडत् , अपिपीडत् । अजीजिवत् , अजिजीवत् , अमीमिलत्, अमिमीलत् । अचीकणत् , अचकाणत् । अरीरणत् , अरराणत् । अवीवणत् , अववाणत् । अबीभणत्, अबभाणत् । अशिश्रणत् , अशाणत् । अजूहवत् , अजुहावत् । अजिहिठत् अजिहेठत् । अलूलुटत् , अलुलोटत् । अलूलुपत् , अलुलोपत् । अलीलपत्, अललापत् ॥ ३६॥ . ऋद्-ऋवर्णस्य । ४ । २।३७। उपान्त्यस्य वर्णस्य ङपरे णौ वा ऋः स्यात् । अवीधृतत् , अववर्त्तत् । अचीकृतत्, अचिकीर्तत् ॥ ३७॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy