________________
[२५८ ]
हैमशब्दानुशासनस्य
ञिणम्परे तु वा दीर्घः । संज्ञपयति पशुम्, विज्ञपयति राजानम्, प्रज्ञपयति शस्त्रम् । अज्ञापि, अज्ञपि । ज्ञापं ज्ञापम्, ज्ञपं ज्ञपम् ॥ ३० ॥
चहणः शाठ्ये । ४ । २ । ३१ । चचुरादेः शाठयार्थस्य णिचि णौ ह्रस्वः स्यात्, ञिणम्परे तु वा दीर्घः । चहयति । अचाहि, अचहि । चाहं चाहम्, चहं चहम् । शाठय इति किम् ? अचहि ॥ ३१ ॥
ज्वल-ह्वल-ह्यल-ग्ला-स्ना-वनू-वम- नमोऽनुपसर्गस्य वा । ४ । २ । ३२ ।
एषामनुपसर्गाणां णौ ह्रस्वो वा स्यात् । ज्वलयति, ज्वालयति । हृलयति, ह्वालयति । ह्मलयति, ह्यालयति । ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । वनयति, वानयति । वमयति, वामयति । नमयति, नामयति । अनुपसर्गस्येति किम् ? प्रज्वलयति, प्रवलंयति, प्रह्मलयति, प्रलापयति, प्रस्नापयति, प्रवनयति । प्रवमयति, प्रणमयति ॥ ३२ ॥
छदेरिस-मन् त्रट्-क्वौ । ४ । २ । ३३ । छरिस्मन्त्रपिरे णौ ह्रस्वः स्यात् । छदिः, छद्म, छत्री, उपच्छत् ॥ ३३ ॥
एकोपसर्गस्य च वे । ४ । २ । ३४ । एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ ह्रस्वः स्यात् । प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छाद ः ॥ ३४ ॥