________________
स्वोपशलघुवृत्तिः [२५७] अमोऽकमि-अमि-चमः। ४।२।२६ । कम्यमिचमिवजस्यामन्तस्य णौ हृस्वः स्यात् , त्रिणम्परे तु वा णो दीर्घः। रमयति । अरामि, अरमि । रामं रामम्, रमं रमम् । अकम्यमियम इति किम् ? कामयते, अकामि, कामं कामम्, आमयति, आचामयति ॥ २६ ॥
पर्यपात् स्खदः । ४ । २ । २७ । . आभ्यामेव परस्य स्खदेणौं हृस्वः स्यात्, जिणम्परे तु वा दीर्घः । परिस्खदयति । पर्यस्खादि, पर्यस्खदि । परिम्खादं परिस्खादम्, परिस्खदं परिस्खदम् । अपस्खदयति । अपास्खादि, अपास्खदि । अपस्खादमपस्वादम्, अपस्खदमपस्खदम् । पर्यपादिति किम् १ प्रस्खादयति ॥२७॥
शमोऽदर्शने । ४ । २ । २८॥ : अदर्शनार्थस्य शमेौँ ह्रस्वः स्यात् , जिणम्परे तु वा दीर्घः । शमयति रोगम् । अशामि, अशमि । शाम शामम्, शमं शमम् । अदर्शन इति किम् ? निशामयति रूपम् ॥ २८॥
यमोऽपरिवेषणे णिचि च । ४ । २ । २९ । - अपरिवेषणार्थस्य यमो णिचि अणिचि च णौ हस्थः स्यात्, जिणम्परेतु वा दीर्घः। यमयति । अयामि, अयमि। यामं यामम् , यम यमम् । अपरिवेषण इति किम् ? यामयत्यतिथिम् ॥२९॥ ___मारण-तोषण-निशाने ज्ञश्च । ४ । २ । ३०। एष्वर्थेषु ज्ञो णिचि अणिचि च णौ हृस्वः स्यात् ,
३३.