________________
[ २५६] हेमशब्दानुशासनस्य
अर्तिरी-ब्ली-ही-क्नूयि-क्ष्मायि-आतां पुः .... ।४।२।२१ । __ एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति, रेपयति, उलेपयति, हेपयति, क्नोपयति, मापयति, दापय ति, सत्यापयति, ॥ २१ ॥
स्फायः स्फात् । ४ । २ । २२। णौ स्फायः स्फाव् स्यात् । स्फावयति ॥ २२ ॥
शदिरगतौ शात् । ४ । २ । २३ । शदिरगत्यर्थे णौ शात् स्यात् । पुष्पाणि शातयति । अगताविति किम् ? गाः शादयति ॥२३॥
घटादेर्हस्वो, दीर्घस्तु वा त्रि-णम्परे । ४।२।२४ । . घटादीनां णौ ह्रस्वः स्यात् , नि-णम्परे तु णौ वा दीर्घः । घटयति । अघाटि, अघटि। घाटं घाटम् , घटं घटम् । व्यथयति अव्याथि, अव्यथि । व्याथं व्याथम्, व्यथं व्यथम् ॥ २४ ॥ कगे चनू-जन-जष्-कनस-रक्षः । ४ । २ । २५।
एषां णौ हृस्वः स्यात, जि-णम्परे तु वा णो दीर्घः । कगयति । अकागि, अकगि । कागं कागम्, कगं कगम् । उपवनयति । उपावानि, उपावनि । उपवानमुपवानम् , उपवनमुपवनम् । जनयति। अजानि, अजनि। जानं जानम्, जनं जनम् । जरयति । अजारि, अजरि । जारं जारम्, जरं जरम् । क्नसयति । अक्नासि, अक्नसि । क्नासं क्नासम्, क्नसं क्नसम् । रजयति.। अराजि, अरजि । राजं राजम्, रज रजम् ॥ २५ ॥ .