________________
स्वोपज्ञलघुवृत्तिः [२५५]
रुहः पः। ४ । २ ॥ १४ रुहेरें प्वा स्यात् । रोपयति, रोहयति वा तरुम् ॥१४॥
लियो नोऽन्तः स्नेहदवे । ४ । २।१५।
लियः स्नेहद्रवे गम्ये णौ नोऽन्तो वा स्यात् । घृतं विलीनयति, विलाययति । स्नेहव इति किम् ? अयो विलाययति ॥ १५ ॥
लोलः । ४ । २ । १६ । __लारूपस्य णौ स्नेहद्रवे गम्ये लोऽन्तो वा स्यात्। घृतं विलालयति, विलापयति या। स्नेहद्रव इत्येव ? जटाभिरालापयते ॥ १६ ॥
पातेः । ४ । २ ॥ १७॥ पातेो लोऽन्तः स्यात् । पालयति ।। १७ ॥
धूग्-प्रीगोन । ४ । २ । १८ । . धूम्प्रीगोो नोऽन्तः स्यात्। धूनयति, प्रीणयति ॥१८॥
वो विधुनने जः।४।२। १९ । .. वा इत्यस्य विधूननेऽर्थे णौ जोऽन्तः स्यात् । पक्षण
उपवाजयति । विधूनन इति किम् ? उच्चैः केशानावापयति ॥ १९॥ पा-शा-छा-सा-वेच्या हो यः।४।२ । २० ।
एषां णौ योऽन्तः स्यात् । पाययति, शाययति, अवच्छाययति, अवसाययति, वाययति, व्याययति, हाययति ॥२०॥