________________
[२५४] हैमशब्दानुशासनस्य
मिग-मीगोऽखल-अच्-अलि । ४।२।८।.
अनयोर्यपि खल-अच्-अल्वर्जेक्ङिति च विषये आत् स्यात् । निमाय, निमाता, प्रमाय, प्रमाता, अखलचलीति किम् ? ईषन्निमयः, दुःप्रमयः, मयः, आमयः, निमयः, प्रमयः॥ ८॥
लीड्-लिनोर्वा । ४ । २ । ९ । अनयोर्यपि खल्-अ-अल्वर्जेऽक्ङिति च विषये आद्वा स्यात् । विलाय, विलीय । विलाता, विलेता। अखलचलीति किम् ? ईषद्विलयः, विलयः, विलयोऽस्ति ॥९॥
णौ क्री-जि-इडः। ४।२।१०। एषां णौ आत् स्यात् । क्रापयति, जापयति, अध्यापयति ॥ १० ॥
सिध्यतेरज्ञाने । ४ । २ । ११ । अज्ञानार्थस्य सिध्यते! स्वरस्याऽऽत् स्यात् । मन्त्रं साधयति । अज्ञान इति किम् ? तपस्तापसं सेधयति । ॥११॥
चि-स्फुरोर्नवा । ४ । २ । १२ । चिस्फुरोो स्वरस्याऽऽद्वा स्यात् । चापयति, चाययति । स्फारयति, स्फोरयति ॥ १२ ॥
वियः प्रजने। ४ । २ । १३ । गर्भाऽऽधानार्थस्य वियो णौ वा आत् स्यात् । पुरा वातो गाः प्रवापयति, प्रवाययति ॥ १३ ॥