SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ॥ द्वितीयः पादः॥ आत् सन्ध्यक्षरस्य । ४ । २ । १ । धातोः सन्ध्यक्षरान्तस्याऽऽत् स्यात् । संव्याता, सुग्लः। धातोरित्येव ? गोभ्याम् ॥ १॥ न शिति । ४ । २।२। सन्ध्यक्षरान्तस्य शिति विषयभूते आत् न स्यात् । संध्ययति ॥ २॥ ___ व्यः थव-णवि । ४ । २।३ । व्यः थवि णवि च विषये आन्न स्यात् । संविव्याय, संविव्ययिथ ॥३॥ स्फुर-स्फुलोर्घत्रि । ४ । २ । ४ । अनयोः सन्ध्यक्षरस्य पनि आत् स्यात् । विस्फारः, विस्फालः॥ ४ ॥ 'वाऽपगुरो णमि । ४ । २ । ५। ___ अपपूर्वस्य गुरेः सन्ध्यक्षरस्य णम्याद्वा स्यात् । अपगारमपगारम् , अपगोरमपगोरम् ॥ ५॥ दीङः सनि वा । ४ । २ । ६ । दीङः सन्याद्वा स्यात् । दिदासते, दिदीषते ॥ ६॥ यपक्डिति । ४।२।७। .. दोडो यपि, अक्डिति चविषये आत् स्यात् । उपदाय, . उपदाता, उपदायो वर्त्तते ॥७॥ १ तोदादिकस्योद्यमार्थस्य गुरतिधातोः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy