SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२५१] क्तनिटश्च जोः कगौ घिति । ४।१।१११ । • तेनिटो धातोश्चजोर्घिति यथासंख्यं कगो स्याताम् । पाकः, भोग्यम् । क्तेऽनिट इति किम् ? सङ्कोचा, कूजा ॥१११॥ न्यड्.कूद-मेघाऽऽदयः । ४ । १ । ११२। न्यवादयः कत्वे, उद्गादयो गत्वे, मेघादयो घत्वे कृते निपात्यन्ते । न्यड्डः, शोकः, उद्गः, न्युद्गः, मेघः ओघः ॥ ११२॥ न वञ्चेर्गतौ । ४।१ । ११३ । गत्यर्थस्य वञ्चेः कत्वं न स्यात् । वञ्चं वश्चन्ति । गताविति किम् ? वङ्क काष्ठम् ॥ ११३ ॥ यजेयज्ञाले।४।१। ११४ । यज्ञानवृत्तेर्यजेर्गत्वं न स्यात् । पञ्च प्रयाजाः । यज्ञान . इति किम् ? प्रयागः ॥ ११४ ॥ . ध्यण्यावश्यके । ४ । १ । ११५ । आवश्यकोपाधिके ध्यणि चजोः कगौ न स्याताम् । अवश्यपाच्यम्, अवश्यरज्यम् । आवश्यक इति किम् ? पाक्यम् ॥ ११५॥ नि-प्रादु युजः शक्ये । ४ । १ । ११६ । आभ्यां युजः शक्ये गम्ये घ्याण गो न स्यात् । नियो. ज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः ॥ ११६ ॥ भुजो भक्ष्ये । ४।१। ११७ । भुजो भक्ष्यार्थे ध्यणि गो न स्यात् । भोज्यं पयः। भक्ष्य इति किम् ? भोग्या भूः ॥ ११७ ॥ १ गन्तव्यं गच्छन्तीति भावः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy