________________
[२५०] हेमशब्दानुशासनस्य
क्रमः क्वि वा । ४।१ । १०६ । क्रमो धुडादौ क्त्वि दीयों वा स्यात् । क्रान्त्वा, क्रन्त्वा । धुटीत्येव ? ऋभित्वा ॥ १०६॥
अहन-पञ्चास्य किस-किडति । ४।१।१०७।
हवनस्य पश्चमान्नस्य क्यो, धुडादौ च विति दीर्घः स्यात् । प्रशान् , शालः, शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहन्निति किम् ? वृत्रहणि । धुटीत्येव ? यम्यते ॥ १०७॥ अनुनासिकेच च्छ्वः शूद् । ४ । १ । १०८ ।
अनुनासिकादौ क्वौ धुडादौ च धातोः च्छ्वोर्यथास ङ्ख्यं श्-ऊटौ स्याताम् । प्रश्ना, शब्दप्राशो, पृष्टः,स्योमा, अक्षयूः, द्यूतः ॥ १०८॥ मव्यवि-श्रिवि-ज्वरि-त्वरेरुपान्त्येन । ४।१। १०९ ।
एषामनुनासिकादौ क्वौ धुडादौ च प्रत्यये उपान्त्येन सह ऊट् स्यात् । मोमा, मूः, मूतिः, ओमा, ओम् , ऊ, अतिः श्रोमा, श्रूः, धृतिः, जूर्मा, जून, जूर्तिः, सूर्मा, तूः, तूर्णः ॥ १०९ ॥
रात् लुक् । ४ । १ । ११० । रात् परयोः छ्वोरनुनासिकादो क्वौ, धुडादौ च प्रत्यये लुक् स्यात्। मोर्मा, मूः, मूर्तिः। तोर्मा, तूः, तूर्णः ॥११०॥
१ क्रीडाद्यर्थस्य दिवूच धातोनिण्पन्नोऽयम् । वकारस्य उद संजातः । २ मूर्छाधातोरिदं रूपत्रयम् ।