________________
[२४८] हैमशब्दानुशासनस्य
स्फायः स्फीर्वा । ४ । १ । ९४ । स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः, स्फी. तवान् । स्फातः, स्फातवान् ॥ ९४ ।।
प्रसमः स्त्यः स्तीः। ४ । १ । ९५ । प्रसमसमुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः स्यात्। प्रसंस्तीतः, प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्या. नः॥ ९५ ।।
प्रात् तश्च मो वा । ४ । १। ९६ । प्रात् केवलात् परस्य स्त्यः क्तयोः परयोःस्तीः स्यात् , क्तयोस्तो मश्च वा । प्रस्तीतः प्रस्तीतवान्।प्रस्तीमः, प्रस्ती. मवान् ॥९६ ॥ श्यः शीवमूर्ति-स्पर्शे नश्वाऽस्पर्शे । ४ । १।९७। 'मूर्तिः काठिन्यम् , द्रवमूर्तिस्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात् , तद्योगे च क्तयोस्तोऽस्पर्शविषये नश्च । शीनम् , शीनवद् घृतम् , शीतं वर्तते, शीतो वायुः ॥९७॥
प्रतेः। ४ । १।९८। । प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात् , तद्योगे क्तयोः तो न च । प्रतिशीनः, प्रतिशीनवान् ॥९८ ॥
वाऽभ्यवाभ्याम्। ४ ।। ९९ । आभ्यां परस्य श्यः क्तयोः परयोः शीर्वा स्यात् , तद्योगे च क्तयोः तोऽस्पर्श नश्च । अभिशीनः, अभिशीनवान् । अभिश्यानः, अभिश्यानवान् । अवशीनम् , अवश्यानं हिमम् । अवशीनवान् , अवश्यानवान् ॥ ९९ ।।