________________
स्वोपज्ञलघुकृत्तिः [२४७] णौ ङ-सनि । ४ । १ । ८८ । । वेगः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृत् स्यात् । अजूहवत्, जुहावयिषति ॥ ८८ ॥
श्वेर्वा । ४ । १ । ८९। श्वेः सस्वरान्तस्था ङपरे, सन्परे णौ विषये वृद्वा स्यात् । अशूशवत् , अशिश्वयत्। शुशावयिषति, शिश्वाययिषति ॥ ८९ ॥
वा परोक्षा-यङि । ४ । १ । ९० । श्वः सस्वरान्तस्था परोक्षायडोद्वा स्यात्। शुशाव, शिश्वाय । शोशूयते, शेश्वीयते ॥९० ॥
__प्यायः पीः। ४ । १ । ९१ । प्यायः परोक्षायडोः पीः स्यात् । आपिप्ये, आपेपीतः ॥९१॥
क्तयोरनुपसर्गस्य । ४ । १ । ९२ । अनुपसर्गस्य प्यायेः क्तक्तवतोः पीः स्यात् । पीनम् , पीनवन्मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः ॥ ९२ ॥..
आङोऽन्धूधसोः । ४ । १ । ९३ । आङः परस्य प्यायेरन्धौ, ऊधसि चार्थे क्तयोः परतः पीः स्यात् । आपीनोऽन्धुः, अपीनमूधः । अन्धूधसोरिति किम् ? आप्यानश्चन्द्रः। आङ एवेति नियमात्, प्राप्यानमूधः ॥ ९३॥