________________
[२४६] हैमशब्दानुशासनस्य
स्वपेयङ्-डे: च। ४ । १।८०। .. स्वपेर्यङि डे किति च परे सस्वरान्तस्था यवृत् स्यात्। सोषुप्यते, असूषुपत् , सुषुप्सति ॥ ८ ॥ ... ज्या व्यधः क्छिति । ४ । १ । ८१ । - ज्याव्यधोः सस्वरान्तस्था किति डिति यवृत् स्यात् । जीयात् , जिनाति, विध्यात् , विध्यति ॥ ८१ ॥ ..
व्यचोऽनसि । ४ । १।८२ । व्यचेः सस्वरान्तस्था अस्वर्जे क्ङिति वृत् स्यात् । विचति । अनसीति किम् ? उरुव्यचाः ।। ८२ ॥
शेरयडिः । ४ १। ८३ । वशेः सस्वरान्तस्था अयङि क्ङिति स्वृत् स्यात् । उष्टः, उशन्ति । अयडीति किम् ? वावश्यते ॥ ८३॥
ग्रह-वश्व-भस्ज-प्रच्छः । ४ । १ । ८४ । एषां सस्वरान्तस्था क्ङिति वृत् स्यात् । जगृहुः, गृ. हाति, वृक्णः, वृश्चति, भृष्टः, भृजति, पृष्टः, पृच्छा ।।८४॥
व्ये-स्यमोयडि ।४।१।८५। व्येग्स्यमोः सस्वरान्तस्था यङि वृत् स्यात् । वेवीयते, सेसिमीति ॥८५ ॥
चायः कीः।४।१।८६। .. चायो यडि की: स्यात् । चेकीतः ॥ ८६ ॥
दिवे हः।४।१।८७ हवेगो द्वित्वविषये सस्वरान्तस्था यवृत् स्यात् । जुहू, पति ।। ८७ ॥