________________
[ २४५ ]
स्वोपज्ञलघुवृत्तिः यजादि-वश्वयः सस्वरान्तस्था इ उ ऋत् |४|१।७२ ॥ यजादेर्वश्वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ-उ-ऋरूपा प्रत्यासत्त्या स्यात् । इयाज, उवाय, उवाश, उवाच ॥ ७२ ॥
न वयो य् । ४ । १ । ७३ ।
वेगो वो यूपरोक्षायां वृत् न स्यात् । ऊयुः ॥ ७३॥ वेरयः । ४ | १ | ७४ |
वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्या त् । ववौ । अय इति किम् ? उवाय ॥ ७४ ॥ अविति वा । ४ । १ । ७५ ।
वेगोऽयन्तस्याविति परोक्षायां वृद्वा न स्यात् । ववुः ऊचुः ।। ७५ ।।
ज्यश्च यपि । ४ । १ । ७६ ।
ज्यो वेगश्च यपि वृन्न स्यात् । प्रज्याय, प्रवाय ॥ ७६ ॥ व्यः । 8 । १ । ७७ ।
व्यो यपि वृन्न स्यात् । प्रव्याय ॥ ७७ ॥ संपर्वा | ४ | १ | ७८ ।
आभ्यां परस्य व्यो यपि वृद्वा न स्यात् । संव्याय, संवीय | परिव्याय । परिव्याय । परिवीय ॥ ७८ ॥
1
यजादि-वचेः किति । ४ । १ । ७९ ।
यजादेवचेश्च सस्वरान्तस्था किति परे वृत् स्यात् :, ऊयुः, ऊचुः । कितीति किम् ? यक्षीष्ट ॥ ७९ ॥
ईजुः,