________________
[२४४] हेमशब्दानुशासनस्य अववेष्टत् , अविवेष्टत् । अचचेष्टत्, अविचेष्टत्॥६६॥
ईच गणः । ४ । १ । ६७। ___ गणेईपरे णौ द्वित्वे पूर्वस्य ईः, अश्व स्यात् । अजीगणत् , अजगणत् ।। ६७॥
अस्याऽऽदेराः परोक्षायाम् । ४ । १।६८..
अस्यां द्वित्वे पूर्वस्याऽऽदेरत आः स्यात् । आदुः,आरतुः । अस्येति किम् ? ईयुः । आदेरिनि किम्? पपाच ॥ ६८॥ अनातो नश्वान्त ऋदाद्यशौ-संयोगस्य । ४ ।१। ६९ ।
ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्याऽऽदेरात्स्थानादन्यस्याऽस्यं आः स्यात्, कृताऽऽतो नोऽन्तश्च । आनृधुः, आनशे, आनञ्ज । अदादीति किम् ? और ? अमात इति किम् ? आञ्छ ।। ६९ ॥
भू-स्वपोरदुतौ । ४ । १ । ७० । __ भूस्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतो स्याताम् । बभूव, सुष्वाप ॥ ७० ॥
ज्याव्ये व्यधि-व्यचि-व्यथेरिः । ४।१।७१ ।
एषां परोक्षायां द्वित्वे पूर्वस्य इः स्यात् । जिज्यौ, संविव्याय, विव्याध, विव्याच, विव्यथे ।। ७१॥
१ एकस्यैत्र शब्दत्वादाद्यन्तविभागोऽत्र नास्ति, ततः “अस्यादेशः......” इति सूत्रेणाऽऽकारः। आग्छ इति आछु व्यायामार्थधातोः परोक्षायां रूपम् । सिद्धान्तचन्द्रिका-रत्निकामते तु आछोर्विकल्येन नोऽन्तत्वं भवति । तेन अनाञ्छ इत्यपि. रूप भवति लन्मते । अशौनिर्देशाद् ' अयश् भोजने इत्यस्मै नेदं सूत्रमुपयुज्यते । .. . ... ... ... ... ... . . ... .