________________
स्वोपवलपुतिः [२४३] स्वपो णावुः । ४ । १ । ६२ स्वपेो सति द्वित्वे पूर्वस्योत् स्यात् । सुष्वापयिषति । णाविति किम् ? सिष्वापकीयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति, सिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ॥ ६२ ॥ असमानलोपे सन्वत् लगुनि डे । ४ । १ । ६३ ।
न विद्यते समानस्य लोपो यस्मिन् , तस्मिन् उपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनोव कार्य स्यात् । अचीकरत् , अजीजवत् , अशिश्रवत् , । लघुनीति किम् ? अततक्षत् । णावित्येव ? अचकमत । असमानलोप इति किम् ? अचकथत् ॥ ६३ ॥ ..
लघोर्दीघोऽस्वरादेः। ४ । १ । ६४। अस्वरादेरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः स्यात् । अचीकरत् । लघोरिति किम् ? अचिक्वणत् । अस्वरादेरिति किम् ? औण्णुनवत् ।। ६४ ॥ स्मृद-स्वर-प्रथ-प्रद-स्तृ-स्पशेरः । ४ । १ । ६५ ।
एषामसमानलोपे उपरे णौ द्वित्वे पूर्वस्याऽत् स्यात्। असस्मरतु, अददरत् , अतत्वरत्, अपप्रथत् , अमम्रदत्, अतस्तरत् , अपस्पशत् ।। ६५॥
वा वेष्ट-चेष्टः । ४ । १ । ६६ । अनयोरसमानलोपे ङपरे णौ द्वित्वे पूर्वस्याद्वा स्यात् ।
१ बहुषु मुद्रितपुस्तकेषु व्याकरणान्तरेषु च विलोकितेषु दृ-स्तृ धातोः कुत्रचिदीर्घत्वं कुत्रचन ह्रस्वत्वं च दृश्यते । परीक्षान्तेऽस्माभिस्तु द्वयोर्दीर्धऋकारान्तत्वमेव साधु मन्यतेऽतोऽत्र दीर्घान्त एव (ऋकारान्तः) पाठोऽङ्गीकृतः । .