SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ [ २४२ ] हैमशब्दानुशासनस्य स्यात् । चरिकर्त्ति, चकर्त्त, चरीकर्त्ति ॥ ५६ ॥ निजां शित्येत् । ४ । १ । ५७ । निजिविजिविषां शिति द्वित्वे पूर्वस्यैत् स्यात् । नेनेक्ति, वेवेक्ति, वेवेष्टि । शितीति किम् ? निनेज ॥ ५७ ॥ पृ-ऋ- भू-मा- हाङामिः । ४ । १ । ५८ । एषां शिति द्वित्वे पूर्वस्य इः स्यात् । पिपर्त्ति इयर्त्ति, विभर्त्ति मिमीते, जिहीते । हाङिति किम् ? जहाति । शितीत्येव ? पपार ॥ ५८ ॥ सनि अस्य । ४ । १ । ५९ । • द्वित्वे पूर्वस्यातः सनि परे इः स्यात् । पिपक्षति । अस्येति किम् ? पापचिपते ।। ५९ ।। ओर्जाऽन्तस्था-पवर्गेऽवर्णे । ४ । १ । ६० । द्वित्वे पूर्वस्यतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इः स्यात् । जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, पिपावयिषते मिमावयिषते । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ॥ ६० ॥ श्रु- स्रु-दु-पु-प्लु च्योर्वा । ४ । १ । ६१ । एषां सनि द्वित्वे पूर्वस्योतोऽवर्णान्तायामन्तस्थायां परस्याम् इव स्यात् । शिश्रावयिषति, शुश्रावयिषति । सिस्रावयिषति, सुस्रावयिषति दिद्रावयिषति, दुद्रावयिपति । पिप्रावयिषति, पुप्रावयिषति । पिप्लावयिषति, पुप्लावयिषति । चिच्यावयिषति, चुच्यावयिषति ॥ ६१ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy