________________
स्वोपज्ञलघुवृत्तिः
[ २४१ ]
वच्यते, सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते ॥ ५० ॥ मुरतोऽनुनासिकस्य । ४ । १ । ५१ ।
आत् परो योऽनुनासिकः, तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् ? तेतिम्यते । अनुनासिकस्येति किम् ? पापच्यते ॥ ५१ ॥ जपजभ-दह-दश-भञ्ज- पशः । ४ । १ । ५२ |
एषां तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते
॥ ५२ ॥
चर-फलाम | ४ | १ | ५३ |
एषां तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । चञ्चूर्यते, पम्फुल्यते ॥ ५३ ॥
ति चोपान्त्याऽतोऽनोद् उः । ४ । १ । ५४ । यङन्तानां चरफलां तादौ च प्रत्यये उपान्त्यस्यात उः स्यात्, न च तस्योत् । चञ्चूर्यते, पम्फुल्यते, चूर्त्तिः, प्रफुल्लिः । अत इति किम् ? चञ्श्चार्यते, पम्फाल्यते । अनोदिति किम् ? चंचूर्ति, पम्फुल्लि ॥ ५४ ॥
ऋमतां रीः । ४ । १ । ५५ ।
ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्यात् । ननृत्यते ॥ ५५ ॥
रि-रौ च लुपि । ४ । १ । ५६ ।
ऋमतां यहो लुपि द्वित्वे पूर्वस्य रिरौ, रीश्चान्तः
१ इमं धातुं दस्यवन्तं न्यासकारादयों मेनिरे इति लघुन्यासे प्रतिपादितम् । ३१