________________
[२४०] हैमशब्दानुशासनस्य
व्यञ्जनस्याऽनादेर्लुक् । ४ । १ । ४४। द्वित्वे पूर्वस्य व्यञ्जनस्यानादेलक् स्यात् । जग्ले । अनादेरिति किम् ? आदेर्मा भूत् , पपाच ॥४४ ।।
अघोषे शिटः । ४।१।४५। - द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाघोषे लुक् स्यात् । चुइच्योत । अघोष इति किम् ? सस्नौ ॥ ४५ ॥
क-उश्च-ञ् । ४ । १ । ४६ । द्वित्वे पूर्वयोः कडोर्यथासङ्ख्यं चजौ स्याताम् । चकार, बुडुवे ।। ४६॥
न कवतेयेङः। ४ । १।४७ । यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कश्चो न स्यात् । कोकूयते खरः। कवतेरिति किम् ? कौति-कुवत्योर्मा भूत् । चोकूयते । यङ इति किम् ? चुकुवे ॥ ४७ ॥
आ-गुणावन्यादेः। ४ । १ । ४८ । यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । पापच्यते, लोलूयते । अन्यादेरिति किम् ? व. नीवच्यते, जञ्जप्यते, यंयम्यते ॥ ४८॥
नहाको लुपि । ४ । १ । ४९ । हाको द्वित्वे पूर्वस्य यको लुपि आन स्यात्। जहेति ॥४९॥ वञ्च-स्रंस-ध्वंस-भंस-कस-पत-पद-स्कन्दोऽन्तो नीः
४।१ । ५०। एषां यङन्तानां द्वित्वे पूर्वस्य नीरन्तः स्यात् । वनी१ सू० १-१-१६ पृ. ३ शिट् संज्ञा । सू० १-१-२३ पृ. ३
अघोष सञ्ज्ञा द्रष्टव्या ।