SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः चेः किर्वा । ४ । १ । ३६ । सन्परोक्षयोर्द्वित्वे सति पूर्वस्मात् परस्य चेः किव स्यात् । चिकीषति, चिचीषति । चिक्ये, चिच्ये ॥ ३६ ॥ पूर्वस्यास्वे स्वरे खोर व् । ४ । १ । ३७ । द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवर्णो वर्णयोरस्बे स्वरे परे इयुवा स्याताम् । इयेष, अरियर्त्ति उवोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ॥ ३७ ॥ ऋतोऽत् । ४ । १ । ३८ | [२३९] द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ॥ ३८ ॥ ह्रस्वः | ४ | १ | ३९ । द्वित्वे सति पूर्वस्य ह्रस्वः स्यात् । पपौ ।। ३९ ।। ग- होर्जः । ४ । १ । ४० । द्वित्वे सति पूर्वयोर्गहोर्जः स्यात् । जगाम, जहास 1180 11 द्युतेरिः । ४ । १ । ४१ । तेर्द्वित्वे सति पूर्वस्य इः स्यात् । दिद्युते ॥ ४१ ॥ द्वितीय - तुर्ययोः पूर्वौ । ४ । १ । ४२ । । द्वित्वे पूर्वयोर्द्वितीयतुर्ययोर्यथासङ्ख्यं पूर्वौ आद्यतृतीयौ स्याताम् । चखान, जझाम ॥ ४२ ॥ तिर्वा ष्ठिवः । ४ । १ । ४३ । ठिवेर्द्वित्वे सति पूर्वस्य तिर्वा स्यात् । तिष्ठेव, टिष्ठेव ॥ ४३ ॥ १ यङ्लुपि रूपम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy