SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ [ २३८ ] हैमशब्दानुशासनस्य द्योगे च नो लुक् । देभुः ॥ २८ ॥ थे वा । ४ । १ । २९ । दम्भेः स्वरस्य थवि एव स्यात्, तद्योगे च नो लुक्, न च द्विः । देभिथ, ददम्भथ ॥ २९ ॥ न शस-ददि-वादि-गुणिनः । ४ । १ । ३०| शसिदयोर्वादीनां गुणिनां च स्वरस्यैर्न स्यात् । विशशसुः विशशसिथ, दददे, बबले, विशशरुः, विशशरिथ ॥ ३० ॥ हौ दः । ४ । १ । ३१ । दासंज्ञस्य हौ परे एः स्यात् न च द्विः । देहि, धेहि ॥ ३१ ॥ देर्दिगि: परोक्षायाम् । ४ । १ । ३२ । देङः परोक्षायां दिगिः स्यात्, नच द्विः । दिग्ये ॥३२॥ ङे पिबः पीप्यू । ४ । १ । ३३ । यन्तस्य पिबतेर्डे परे पीप्य् स्यात् न च द्विः । अपीव्यत् ॥ ३३ ॥ अङ हि-हनो हो घः पूर्वात् |४| २|३४| हिनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घः स्यात् । प्रजिघाय, जघन्यते । अङ इति किम् ? प्राजीहयत् ॥ ३४ ॥ जेर्गिः सन्- परोक्षयोः । ४ । १ । ३५ । सन्परोक्षयोर्द्वित्वे सति पूर्वात् परस्य जेर्गि: स्यात् । जिगीषति, विजिग्ये ॥ ३५ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy