________________
स्वोपज्ञलघुवृत्तिः
[२३७] न्धिनः स्वरस्यातोऽसहायव्यञ्जनयोर्मध्यगतस्य एः स्यात्, न च द्विः । पेचुः, पेचिथ, नेमुः, नेमिथ । अनादेशादेरिति किम् ? बभणतुः । एकव्यञ्जनमध्य इति किम् ? ततक्षिथ । अत इति किम् ? दिदिवतुः । सेथवीत्येव, पपक्थ ||२४||
तृ त्रप-फल- भजाम् | ४ | १ | २५ | एषामवित्परोक्षासेट्र्थवोः स्वरस्यैः स्यात् न च द्विः । तेरुः, तेरिथ, श्रेपे, फेलुः, फेलिथ, भेजुः, भेजिथ
॥ २५ ॥
ܙ
भ्रम-वमन्त्रस- फणस्यम-स्वन-राज-भ्राजभ्रासभ्लासो वा । ४ । १ । २६ ।
"
एषां स्वरस्याऽवित्परोक्षासेटूथवोरेर्वा स्यात् न च द्विः । जेरुः, जजरुः । जेरिथ, जजरिथ । भ्रमुः बभ्रमुः । मिथ, बभ्रमिथ । वेमुः ववमुः । वेमिथ ववमिथ । त्रेसुः, तसुः । सिथ, तत्रसिथ । फेणुः, पफणुः । फेणिथ, पफणिथ । स्येमुः, सस्यमुः । स्येमिथ, सस्यमिव । स्वेनुः, सस्वतुः । स्वनिध, सस्वनिथ । रेजुः रराजुः । रेजिथ, रराजिथ । भेजे, बभ्राजे | से, बभ्रासे । भ्लेसे, बम्लासे ॥ २६ ॥
वा श्रन्थ-ग्रन्थो नलुक् च | ४ | १| २७ । अनयोः स्वरस्यावित्परोक्षासेट्थवोरेर्वा स्यात्, त द्योगे च नो लुक्, न च द्विः । श्रेयुः शश्रन्धुः । श्रथिथ । शश्रन्थि । ग्रेथुः जग्रन्थुः । ग्रेथिथ, जग्रन्थि ॥ २७ ॥
दम्भः । ४ । १ । २८ ।
दम्भेः स्वरस्यावित्परोक्षायामेः स्यात् न च द्विः, त