________________
[२३६ ]
हैमशब्दानुशासनस्य
दम्भोधि धीप् । ४ । १ । १८ । दम्भेः सनिधीपौ स्यातां न चास्य द्विः । धिप्सति । सीत्येव । दिदिम्भिषति ॥ १८ ॥
अव्याप्यस्य मुचेर्मोक् वा । ४ । १ । १९ । मुचेरकर्मणः सि सनि मोक् वा स्यात्, न चास्य द्विः । मोक्षति, मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥ १९ ॥
मि-मी-मा-दामित् स्वरस्य । ४ । १ । २० । मिमीमादासंज्ञानां स्वरस्य सि सनि इत् स्यात्, न च द्वि । मित्सति, मित्सते, मित्सते, दित्सति, धित्सति ॥ २० ॥
रभ-लभ-शक-पत-पदामिः । ४ । १ । २१ । एषां स्वरस्य सिसनि इः स्यात् न च द्विः । आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते । सीत्येव ? पिपतिषति ॥ २१ ॥
राधेवेधे । ४ । १ । २२ ।
राधे हिंसार्थस्य सि सनि स्वरस्य इः स्यात्, न च द्विः । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ॥ २२ ॥ अबित्परोक्षा - सेवोरेः । ४ । १ । २३ । राधेहिसार्थस्याविति परोक्षायां धवि च सेटि स्वरस्य एः स्यात्, न च द्विः । रेधुः, रेधिथ । अविदिति किम् ? अपरराध । बध इत्येव १ आरराधतुः ॥ २३॥ अनादेशाऽऽदे रेकव्यञ्जनमध्येऽतः । ४ । १ । २४ । अवित्परोक्षासेदूथवोः परयोर्योऽनादेशाऽऽदिस्तत्सम्ब
w