________________
स्वोपज्ञलघुवृत्तिः ____ [२३५] यिषति, ईयिपिषति ॥ ११॥
__ हवः शिति । ४ । १ । १२ । जुहोत्यादयः शिति द्विः स्युः । जुहोति ॥१२॥ चराचर-चलाचल-पतापत-वदावद-घनाघन
पाटूपटं वा। ४ । १ । १३ । एतेचि कृतद्वित्वादयो वा निपात्यन्ते । चराचरः, चलाचलः, पतापतः, वदावदः, घनाघनः, पाटूपटः । पक्षे, चरः, चलः, पतः, वदः, हनः, पटः ॥ १३ ॥
चिक्लिद-चक्नसम् । ४ । १ । १४ । ... एतौ केचि च कृतद्वित्वौ निपात्येते। चिक्लिदः, . चक्नसः ॥ १४ ॥
-दा-स्वत्-साहत्-मीदवत् । ४ । १।१५। . . एतेक्वसावद्वित्वादयो निपात्यन्ते । दास्वांसो, साहांसी, मीढ्वांसौ ॥ १५ ॥ ज्ञप्यापो जीपीए, न च द्विः सि सनि ।
४ | १ | १६ । ज्ञपेरापेश्च सादौ सनि परे यथासंख्यं ज्ञीप्-इपौ स्यातां, नचाऽनयोरेकस्वरोंऽशो द्विः स्यात् । ज्ञीप्सति, ईप्सति । सीति किम् ? जिज्ञपयिषति ॥ १६ ॥
ऋध इत् । ४।१।१७। ऋधः सादौ सनि परे ईात्, न चास्य द्विः। ईसति । सीत्येव ? अदिधिषति ॥ १७॥ ....