________________
[२३२] हैमशब्दानुशासनस्य णि-स्नु-श्रयात्मने पदाऽकर्मकात् । ३ । ४ ।९२।
ण्यन्तात्, स्नुश्रिभ्यामात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि बिच् न स्यात् । अपीपचदोदनं चैत्रेण मैत्रः, अपीपचतौदनः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव, उदशिश्रियत दण्डः स्वयमेव, व्यकृत सैन्धवः स्वयमेव ॥१२॥. भूषार्थ-सन्-किरादिभ्यश्च जिक्यौ । ३ । ४।९३ । भूषार्थेभ्यः, सन्नन्तेभ्यः, किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि जिक्यो न स्याताम्। भूषार्थ, अलमकृत कन्या स्वयमेध, अलंकुरुते कन्या स्वयमेव । सन् , अचिकीर्षिष्ट, चिकीपते वा कटः स्वयमेव । किरादिः, अकीट, किरते वा पांशुः स्वयमेव, अगीट गिरते वा ग्रासः स्वयमेव । णि, कारयते कटः स्वयमेव, चोरयते गौः स्वयमेव, प्रस्नुते गौः स्वयमेव । श्रि, उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकमकात्, विकुर्वते सैन्धवाः स्वयमेव ॥ ९३ ॥
करणक्रियया क्वचित् । ३ । ४ । ९४ । एकधातौ पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्तरि जिक्यात्मनेपदानि स्युः, क्वचित् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचिदिति किम् ? साध्वसिः छिनत्ति ॥ ९४ ॥ इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयोऽध्यायः
समाप्तः॥३॥४॥