________________
अहम् ॥ अथ चतुर्थाध्याये प्रथमः पादः॥
द्विर्धातुः परोक्षा-डे, प्राक् तु स्वरे स्वरविधेः
।४।१।१। परोक्षायां के च परे धातुर्द्विः स्यात् , स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव । पपाच, अबकमत। धातुरिति किम् ? प्राशिश्रियत्। प्रागिति किम् ? चक्रतुः। स्वर इति किम् ? जेधीयते । स्वरविधेरिति किम् ? शुशाव ।प्राक् तु स्वरे स्वरविधेरिति आद्विवचनमधिकारः ॥१॥
आद्योऽश एकस्वरः । ४ । १ ।२। __ अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षा डे. परे द्विः स्यात् । जजागार । अचीकणत्, अचकाणत् । अचीकरत् ॥ २ ॥
सन्-यड श्च । ४।१।३। .. सनन्तस्य यङन्तस्य चाऽऽद्य एकस्वरोंऽशो द्विः स्यात् । तितिक्षते, पापच्यते ॥३॥ . स्वराऽऽदेर्दितीयः । ४ । १।४।।
स्वरादेयुक्तिभाजो द्वितीयोंश एकस्वरो द्विः स्यात् । अटिटिषति, अशाश्यते । प्राक् तु स्वरे स्वरविषे. रित्येव ? आटिटत् ॥ ४॥
दुओश्विधातोः परोक्षारूपम् । स्वरस्य कार्य वृद्धिगुणादेशादि ।