SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [२३१] कर्मिकया वा, एकक्रिये कर्तरि कर्मकर्तृरूपे, आभ्यां जि. क्यात्मनेपदानि स्युः। अपाचि पच्यते पक्ष्यते वा ओदनः स्वयमेव, अदोहि दुग्धे धोक्ष्यते वा गौः स्वयमेव, उदुम्बरः फलं पच्यते, अपक्त पक्ष्यते वा स्वयमेव, दुग्धे अदुग्ध धोक्ष्यते वा पयो गौः स्वयमेव ॥ ८७ ॥ न कर्मणा त्रिच् । ३ । ४ । ८८ । पचिदुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्तरि जिच् न स्यात् । अपक्त उदुम्बरः फलं स्वयमेव, अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाचि ओदनः स्वयमेव । अनन्तरोक्त कर्तरीत्येव ? अपाच्युदुम्बरः फलं वायुना ॥ ८८ ॥ • रुधः । ३ । ४ । ८९ । रुधोऽनन्तरोक्ते कर्तरि जिच् न स्यात् । अरुद्ध गौः स्वयमेव ॥ ८९॥ स्वर-दुहो वा । ३ । ४ । ९०। स्वरान्ताद् दुहेश्चानन्तरोक्ते कर्तरि बिच् वा स्यात् । अकृत, अकारि वा कटः स्वयमेव । अदुग्ध अदोहि वा गौः स्वयमेव ॥ ९ ॥ तपः कर्चनुतापे च । ३ । ४ । ९१ । तपेः कर्मकर्तरि, कर्तर्यनुतापे चार्थे जिच् न स्यात् । अन्ववातप्त कितवः स्वयमेव, अतप्त तपांसि साधुः, अन्वतप्त चैत्रेण, अन्ववातप्त पापः स्वकर्मणा। कर्चनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥ ९१ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy