SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ [२३०] हैमशब्दानुशासनस्य कृग्-तनादेरुः । ३ । ४ । ८३ ।। कृगस्तनादिभ्यश्च कर्तृविहिते शिति उः स्यात् । करोति, तनोति ॥ ८३ ॥ सृजः श्राद्धे जिक्यात्मने तथा । ३ । ४ । ८४ । सृजः पराणि श्रद्धावति कर्तरि जिक्यात्मनेपदानि स्युस्तथा यथा पूर्व विहितानि । असर्जि, सृज्यते, स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ?: व्यत्यसृष्ट माले मिथुनम् ॥ ८४ ॥ तपेस्तपःकर्मकात् । ३ । ४ । ८५ । तपेस्तपःकर्मकात् कर्तरि जिक्यात्मनेपदानि स्युस्तथा। तप्यते तेपे वा तपः साधुः । तप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः । कर्मेति किम् ? तपः साधु तपति ॥ ८५ ।। एकधातौ कर्मक्रिययैकाऽकर्म क्रिये । ३।४ ८६ । , एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अ. भिन्ना सम्प्रत्यकर्मिका क्रिया यस्य,तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्जिक्यात्मनेपदानि स्युः। अकारि क्रियते करिष्यते वा कटः स्वयमेव । एकधाताविति किम् ? पचति ओदनं चैत्रः, सिध्यत्योदनः स्वयमेव ।कर्मक्रिययेति किम् ? साध्वसिः छिनत्ति । एकक्रिय इति किम् ? स्रवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः। अकमक्रिय इति किम् ? भिद्यमानः कुशूला पात्राणि भिनत्ति ॥८६॥ . पचि-दुहेः । ३ । ४ । ८७। . एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया स
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy