________________
स्वोपज्ञलघुवृत्तिः [२२९]
वाऽक्षः । ३।४ । ७६ । अक्षः कर्तृविहिते शिति इनुर्वा स्यात् । अक्ष्णोति, अक्षति ॥७६॥
तक्षः स्वार्थे वा । ३ । ४ । ७७। . स्वार्थस्तनुत्वं, तवृत्तेस्तक्षः कर्तृविहिते शिति इनुर्वा स्यात् । तक्ष्णोति, तक्षति । स्वार्थ इति किम् ? संतक्षति शिष्यम् ॥७॥
स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोःश्ना
• च।३।४ । ७८। स्तम्भ्वादेः सौत्राद् धातोः, स्कुङ्गश्च कर्तृविहिते शिति इना इनुश्च स्यात् । स्तम्नाति, स्तन्नोति । स्तुभ्नाति, स्तुम्नोति। स्कम्नाति, स्कम्नोति । स्कुम्नाति, स्कुम्नोति। स्कुनाति, स्कुनोति ॥ ७८॥
क्रयादेः । ३ । ४ १७९ । क्रयादेः कर्तृविहिते शिति इना स्यात् । क्रीणाति, प्रीणाति ॥ ७९ ॥
- व्यञ्जनात् नाहेरानः । ३।४।८०। व्यञ्जनात् परस्य नायुक्तस्य हे आनः स्यात् । पुषाण, मुषाण । व्यञ्जनादिति किम् ? लुनीहि ।। ८०॥
तुदादेःशः।३।४।८१ । एभ्या कर्तृविहिते शिति शः स्यात् । तुदति, तुदते ॥८१॥
रुषां स्वरात् श्नो, नलुक् च । ३।४ । ८२ । __ रुधादीनां स्वरात् परः कर्तृविहिते शिति नः स्यात्, तद्योगे प्रकृते! लुक् च यथासम्भवम्।रुणद्धि,हिनस्तिा८२।