SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ [२२८] हैमशब्दानुशासनस्य कर्यनद्यः शत् । ३।४।७१ । अदादिवर्जाद् धातोः कर्तरि विहिते शिति शव स्यात् । भवति । कर्तरीति किम् ? पच्यते । अनद्भय इति किम् ? अत्ति ॥ ७१॥ दिवादेः श्यः । ३।४ । ७२ । दिवादेः कर्तृविहिते शिति श्यः स्यात् । दीव्यति, जीयति ॥७२॥ भ्रास-भ्लास-भ्रम क्रम-क्लम त्रसि-त्रुटि-लषि-यसि संयसेर्वा । ३।४।७३। एभ्यः कर्तरि विहिते शिति श्यो वा स्यात्। भ्रास्यते, भ्रासते । भ्लास्यते, भ्लासते। भ्राम्यति, भ्रमति । का. म्यति, कामति । क्लाम्यति, क्लामति । त्रस्यति, स. ति। त्रुटयति, त्रुटति। लष्यति, लषति । यस्यति, यसति। संयस्यति, संयसति ॥ ७३ ॥ कुषि रजेाप्ये वा परस्मै च ।३।४।७४। आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात्, तद्योगे च श्यः। कुष्यति, कुष्यते वा पादः स्वयमेव । रज्यति, रज्यतेवा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः। शितीत्येव ? अकोषि ॥ ७४ ॥ स्वादेः श्नुः । ३।४।७५ । . स्वादेः कर्तृविहिते शिति श्नुः स्यात्.। सुनोति, सिनोति ॥ ७५॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy