________________
स्वोपज्ञलघुवृत्तिः [२२७] अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अघोधि, अबुछ। अपूरि, अपूरिष्ट । अतायि, अतायिष्ट । अप्यायि अप्यायिष्ट ॥ ६७ ॥
भाव-कर्मणोः । ३ । ४ । ६८।। सर्वस्माद् धातो वकर्मविहितेऽद्यतन्याः ते जिच् स्यात् , तलुक् च । आसि त्वया, अकारि कटः ॥६॥ स्वर-ग्रह-दृश-हन्भ्यः स्य-सिच-आशीः-श्वस्तन्यां
.जिट्वा । ३ । ४ । ६९।। स्वरान्ताद् ग्रहादेव विहितासु भावकर्मजासु स्यसिजाशीश्वस्तनीषु जिट वा स्यात् । दायिष्यते, दास्यते । अदायिषाताम् , अदिषाताम् । दापिषीष्ट, दासीष्ट । दायिता, दाता । ग्राहिष्यते, ग्रहीष्यते। अग्राहिषाताम् , अग्रहीपाताम् । ग्राहिषीष्ट, ग्रहीषीष्ट । ग्राहिता, ग्रहीता। दर्शिष्यते, द्रक्ष्यते । अदर्शिपाताम् , अदृक्षाताम् । दर्शिषीष्ट, दृक्षीष्ट । दर्शिता, द्रष्टा। घानिष्यते, हनिप्यते । अघानिषाताम् , अवधिषाताम् । घानिषीष्ट,
वधिषीष्ट । घानिता, हन्ता ॥ ६९ ॥ .. . क्यः शिति । ३ । ४ । ७०।
सर्वस्माद् धातोर्भावकर्मविहिते शिति क्यः स्यात् । शय्यते त्वया, क्रियते कटः। शितीति किम् ? बभूवे ॥ ७० ॥
१ "न जनवधः" (४-३-५४) इति निषेघसूत्रान्न वृद्धिः।
२ जि-णवि घन्" (४-३-१०१) इति हनो घनादेशः। “अद्यतन्यां वा त्वात्मने " (४-४-२२) इति विकल्पतो वधादेशः।