________________
[२२६] हैमशब्दानुशासनस्य
वाऽऽत्मने । ३।४ । ६३ हादेः कर्तर्यद्यतन्यामात्मनेपदे वाऽङ् स्यात् । आह्वत, आह्वास्त । अलिपत, अलिप्त । असिचत, असिक्त ॥६३॥ लदिद्-गुतादि-पुष्यादेः परस्मै । २ । ४ । ६४ ।
लदितो झुतादेः पुष्यादेश्च कर्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् । अगमत् , अद्युतत्, अरुचत् , अपुषत् , औचत् । परस्मैपद इति किम् ? समगस्त ॥६४ ॥ . ऋदित्-श्वि-स्तम्भू-म्रचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्च
ज्रो वा । ३।४।६५। ऋदितः श्व्यादेश्चकर्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्या त् । अरुधत् , अरौत्सीत् । अश्वत्, अश्वयीत् । अस्तभत, अस्तम्भीत् । अनुचत् , अम्रोचीत् । अम्लुचत् , अम्लोचीत् । अग्रुचत् , अग्रोचीत् । अग्लुचत् , अग्लोचीत् । अग्लुचत, अग्लुश्चीत् । अजरत, अजारीत् ॥६५।। .. त्रिच ते पदः, तलुक् च । ३ । ४ । ६६ । " पद्यतेः कर्तर्यद्यतन्याःते परे त्रिच स्याद्, निमित्ततस्य च लुक् । उदपादि । त इति किम् ? उदपत्साताम् ॥६६॥ दीप-जन-बुधि-पूरिस्तायि-प्यायो वा । ३ । ४।६७। .. एभ्यः कर्तर्यद्यतन्याः ते परे त्रिच वा स्यात्, तलुक्च,
१ परस्मैपदाऽभावे अद्योतिष्ट । अरोचिष्ट उचच् समवाये पुषादिगतः । तस्य 'औचत् इति रूपम्'। ___ २ को डिस्वाद् वृद्धिगुणाऽभावः तेन अरुधदित्यादिषु न वृद्धिगुणौ। अग्लुचदित्यन “नो व्यञ्जनस्यानुदितः" (४-२-४५) इतिसूत्रेण नकारलोपः । अजरदित्यत्र 'ऋवर्णदृशोऽङि,' (४-३-७) इति सूत्रेण गुणप्राप्तिर्जाता । जुषो देवादिकस्य रूपम् । रुधृपी आवरणे ऋदित् ।