________________
स्वोपज्ञलघुवृत्तिः [२२५] नासत्त्वाऽऽश्लेषे । ३ । ४ । ५७ । श्लिषोऽप्राण्याश्लेषार्थात् सक् न स्यात् । उपाश्लिषत् जतु च काष्ठं च । असत्त्वाऽऽश्लेष इति किम् ? व्यत्यशिलक्षन्त मिथुनानि ॥ ५७॥ णि-श्रि-द्रु-सु-कमः कर्तरि डः।३।४ । ५८ ।
ण्यन्तात् अयादिभ्यश्च कर्तर्यद्यतन्यांङ स्यात्। अची. करत् , अशिश्रियत् , अदुद्रुवत्, असुनुवत् , अचकमत्। कर्तरीति किम् ? अकारयिषातां कटौ मैत्रेण ॥ ५८॥
ट्धे-श्वर्वा । ३।४। ५९। आभ्यां कर्तर्यद्यतन्यां डो वा स्यात् । अदधत् , अधात् । अशिश्वियत्, अश्वत् । कत्तरीत्येव ? अधिपातां गावौ वत्सेन ॥ ५९॥
शास्त्यसू-चक्ति-ख्यातेरङ् । ३ । ४।६।। एभ्यः कत्तर्यद्यतन्यामङ् स्यात् अशिषत् , अपास्थत्, अवोचत् , आख्यत् । कर्तरीत्येव ? अशासिषातां शिष्यो गुरुणा ॥ ६॥
. सत्यतैर्वा । ३।४।६१ । । आभ्यां कर्तर्यद्यतन्याम वा स्यात्। असरत् , असापौत् । आरत् , आर्षात् ।। ६१॥
हा-लिप-सिचः। ३ । ४ । ६२ । एभ्यः कर्तर्यद्यतन्यामङ् स्यात् । आह्वत्, अलिपत्, असिचत् ॥ ६२ ॥
.
'
द