________________
[ २२४] हैमशब्दानुशासनस्य ताच कृम्बस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । विदाञ्चकारें, विवेद ।। ५१ ॥
पञ्चाम्याः कम् । ३ । ४ । ५२ । वेतः परस्याः पञ्चम्या किदाम्बा स्यात् , आमन्तचि परः पञ्चम्यन्तः कृगनुप्रयुज्यते । विदाङ्करोतु, वैत्तु ।।५२।..
सिच अद्यतन्याम । ३ । ४ । ५३ । . अद्यतन्यां परस्यां धातोः परः सिन् नित्यं स्यात् । अनैषीत् ।। ५३ ॥
स्पृश-मुश-तृप-कृष-दृपो वा । ३ । ४ । ५४ ।
एभ्योऽद्यतन्यां सिज् वा स्यात.। अस्माक्षीत्, अ. स्पाक्षीत्, अस्पृक्षत् । अम्राक्षीत् , अमाक्षीत्, अमृक्षत् । अक्राक्षोत्, अकार्धात्, अक्षत् । अत्राप्सीत् , अताप्सीत्, अतृपत् । अद्राप्सी, अदासीत् , अपत् ।।५।। ह-शिटों नाम्युपान्त्याद् अदृशोऽनिटः
सक् । ३ । ४ । ५५। ' हशिडन्ताद् नाम्युपान्त्याद् अदृशोनिटोऽद्यतन्यां सक् स्यात् । अधुक्षत्, अविक्षत् । हशिंट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत ॥ ५५ ॥
श्लिषः । ३ । ४ । ५६ । "श्लिषोऽनिटोऽद्यतन्या सक् स्यात् । आश्लिक्ष केन्याँ मैत्र। अनिट इत्येव १ अश्लेषीत् ॥ ५६ ।।
१ तृप्-दृपोः पुषादित्वात् “लुदिद्-द्युतादिपुष्यादेः परस्मै" (३-४-६४) इत्यङिप्रत्यये अनुमत्ता