________________
स्वोपज्ञलघुत्तिः
[२२३] परोक्षाया आम् स्यात् , आमन्ताच परे कृभ्वस्तयः परो. क्षान्ता अनुप्रयुज्यन्ते । ईहाश्चक्रे, ईहाम्बभूव, ईहामास । गुर्विति किम् ? इयेष । नामीति किम् ? आनर्च । आदीति किम् ? निनाय । अनुच्छ्रोरिति किम् ? आनर्छ, प्रोणुनाव ॥४८॥
जागृउप-समिन्धेनवा । ३ । ४ । ४९। एभ्यो धातुभ्यः परस्या परोक्षाया आम् वा स्यात्, आमन्ताच परे भ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते। जागराञ्चकार, जागराम्बभूव, जागरामास, जजागार । ओषाञ्चकार, उवोष । समिन्धाश्चक्रे, समीधे॥ ४९ ॥
भी-ही-भृ-होस्तिव्वत् । ३ । ४ । ५० । एभ्यः परस्याः परोक्षाया आम् वा स्यात्, स च तिव्वत्, आमन्ताच परे कृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । बिभयाश्चकार, विभयाम्बभूव, बिभयामास, बिभाय । जिह्वयाञ्चकार, जिह्वाय । विभराञ्चकार, बभार। जुहवाञ्चकार, जुहाव ॥ ५० ॥
वेत्तेः 'कित् । ३। ४ । ५१ । वेत्तेः परस्याः परोक्षाया आम् किद् वा स्यात्, आम• तु उक्षाम्प्रचारित्यत्र प्रस्य व्यवधानाद् दुष्टप्रयोगाऽऽशङ्कया नगरस्य मार्गान् पथ उक्षान् सेकवंतः प्रचक्रुः” इत्यर्थो घटितः । उपसर्गस्य क्रियाविशेषकत्वेन तस्य प्रादेरुपवर्गस्य व्यवधानं न मन्यते मनीषिभिः । "तं पातयां प्रथममास' इति प्रयोगस्यापि कथमपि सत्यत्वं घटते, 'प्रथमम्' इत्यस्य क्रियाविशेषणत्वादिति लघुन्यासकारमतम् । यच्च कालिदासेन कविना रघुवंशे "प्रमंशयां यो नहुषं चकार" (रघु० १३-३६) इत्याम्प्रत्ययाद् ब्यवहितः कृगः प्रयोगो लिखितः स तु व्याकरणदृष्टया प्रामादिक एव प्रतिभाति । ऋच्छत् तौदादिकः, ऊर्णग् आदादिको धातुः।
१ कित्त्वाद् गुणप्रतिषेधः, तेनाऽऽमि परेऽपि विदो न गुणः ।