________________
[२२२] हैमशब्दानुशासनस्य
अनेकस्वराद्धातोः परस्याः परोक्षायाः स्थाने आम् स्यात्, आमन्ताच परेकृभ्वस्तयः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । चकासाश्चकार, चकासाम्बभूव, चकासामास । अनेकस्वरादिति किम् ? पपाच, अनु विपर्यासव्यवहितिनिवृत्त्यर्थः, तेन चकार चकासाम्, ई. हां चैत्रश्चक्रे इत्यादि न स्यात् ॥४६॥
दयाऽयाऽऽसू-कासः । ३ । ४ । ४७ ॥ एभ्यो धातुभ्यः परस्याः परोक्षाया आम् स्यात् , आ. मन्ताच परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । दयाश्वके, दयाम्बभूव, दयामास । पलायाश्चक्रे, आसाञ्चक्रे, कासाञ्चक्रे ॥४७॥
गुरुनाम्यादेरनृच्छ्र्णोः । ३ । ४.४८ । गुरु म्यादिर्यस्य तस्माद्धातोः, ऋच्छ-ऊणुवर्जात् परस्याः प्रयोगः तत्रापरस्यापरयोर्वा न प्रयोगः, एकेनैव कार्यसिद्धनिरर्थकत्वात् । अनुप्रयु- १ ताः कृभ्वस्तयः स्वस्य वाच्यार्थ न बोधयन्ति, गौणीभूतत्वात्तेषां, येनानुप्रयुक्ताः स धातुरेव स्वार्थ बोधयति, यदा जागराञ्चकार जागरामास जागराम्बभूव इत्यस्य जजागार-जागृतवान् इत्येवार्थः चोरयाञ्चकार इत्यस्य चोरितवान् इत्येवार्थः । आत्मनेपदे कर्तृप्रयोगे आंमः अस्-भूधात्वोरनुप्रयुक्तयो त्मनेपदं भवति, आत्मनेपदिधातोरनुप्रयुक्तयोरपि तयोः परस्मैपदत्वमेव स्यादित्याशयः, यथा एधामास, एधाम्बभूव । कृगस्तु यथाप्राप्तमुभयमपि भवति, यथा एधाञ्च के, विदाञ्चकार । अनु विपर्यासव्यवहितनिवृत्त्यर्थः । अर्थाद् ‘आमः पूर्वो व्यवहितो वा कृभ्वस्तीनां प्रयोगो न कार्यः किन्त्वनन्तरोऽग्रे एव च कार्य इति ।
1 ननु तर्हि "उक्षाम्प्रचक्रुर्नगरस्य मार्गान्” (सर्गः ३-५) इति भट्टिबिरचितकाव्यप्रयोगो वितथः स्याद्, प्रेण व्यवधानात्,मैवं वादीः, 'उपसर्गोन व्यवधायी' इति न्यायेन सवृत्तिन्यायसंग्रहे 'आमन्तस्य कृगश्च प्रेण न व्यवधानम् । अयं भावः-कृभ्वस्ति चानु तदन्तम् (है ३-४-४६) इत्यत्रानुशब्दस्य तावदयमर्थःव्यवहितो विपर्यस्तो वा कृभ्वस्तीनां प्रयोगो न कार्यः, किन्त्वनन्तर एवाग्रे च कार्य इति हेमहंसगणिनैव समाहितम् । भट्टिकाव्यटीकाकर्ता जयमङ्गलेन