________________
स्वोपज्ञलघुवृत्तिः
[ २२१]
चीवरात परिधानार्जने । ३ । ४ । ४१ । अस्मात् कर्मणः परिधानेऽर्जने चार्थे णिङ् वा स्यात् । परिचीवरयते, संचीवर घते ॥ ४१ ॥
णिच बहुलं नाम्नः कृगादिषु । ३ । ४ । ४२ । कुगादीनां धातूनामर्थे माम्नी णिज् बहुलं स्यात् । मुण्डं करोति मुण्डयति च्छात्रम्, पटुमाचष्टे पटयति, वृक्षं रोपयति वृक्षपति, कृतं गृह्णाति कृतयति ॥ ४२ ॥
व्रताद् भुज- सन्निवृत्त्योः । ३ । ४ । ४३ । वर्त शास्त्रविहितो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यfe कृगादिष्वर्थेषु णिज् बहुलं स्यात । पयो व्रतयति, सावधानं व्रतयति ॥ ४३ ॥
सत्यार्थ - वेदस्य आः । ३ । ४ । ४४ । एषां णिच्सन्नियोगे आः स्यात् । सत्यापयति, अर्थापयति, वेदापयति ॥ ४४ ॥ श्वेताश्व-अश्वतर-गालोडिताऽऽह्वरकस्याऽश्व-तर-इ
त- 'कलुकू । ३ । ४ । ४५ ।
एषां णिजयोगे यथा सख्यमश्वादेः शब्दस्य लुक् स्वात् । श्वेतयति, अश्वयति, गालोडयति, आह्रस्यति
॥ ४५ ॥।
धातोरनेकस्वरादाम् परोक्षायाः, कृभ्वस्ति चानु-तदन्तम् । ३ । ४ । ४६ ।
१ प्रथमे 'अश्व' इत्यस्य लुक् द्वितीये 'तर' इत्यस्य तृतीये 'इत' इत्यस्म, तुर्ये 'क' इत्यस्य लुग् भवति क्रमशः ।
२ धातोः कृ-स्वस्तयः पृथग् पृथग् प्रयुज्यन्ते न युगपद् यत्रैकस्यानु