________________
[२१८] हेमशब्दानुशासनस्य क्यन् काम्यश्च वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अ. माव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति ॥२३॥
आधाराचोपमानाद् आचारे । ३ । ४ । २४ ।
अमाव्ययादुपमानाद्, द्वितीयान्तादाधाराचाऽऽचारार्थे क्यन् वा स्यात् । पुत्रीयति च्छात्रम्, प्रासादीयति कुट्याम् ॥ २४ ॥
कर्तुः क्विए, गल्भ-क्लीब-होडात्तु ङित् ।३।४।२५/ - कर्तरुपमानाद् नाम्न आचाराऽर्थे विप् वा स्यात् , गल्भक्लीबहोडेभ्यस्तु स एव ङित् । अश्वति, गल्भते, क्लीवते, होडते ॥२५॥
क्यङ् । ३ । ४ । २६। कर्तरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ॥२६॥
सो वा लुक् च । ३ । ४ । २७ । सन्तात् कर्तरुपमानादाचारेऽर्थे क्यङ् वा स्याद्, अन्तस्य च सोधा लुक् । पयायते, पयस्यते ॥२७॥
ओजोऽप्सरसः। ३ । ४ । २८ । आभ्यां कर्तुरुपमानाभ्यामाचारे क्यङ् वा स्यात्, सश्च लुक् । ओजायते, अप्सरायते ॥ २८ ॥
१ पुत्रमिवाचरति पुत्रीयति गुरुः च्छात्रम् । प्रासादे इवाचरति तिष्ठतीति प्रासादीयति कुट्यां भिक्षुः । अयं नाम्नो निष्पन्नो धातूभवति । धातुसंज्ञानन्तरं पुत्रीय धातोस्तिवादिप्रत्ययाः, णिगादिप्रक्रियाप्रत्ययाश्च यथाशाप्तं भवन्ति । एवं सर्वेषां नामधातूनाम् ।