________________
स्वोपज्ञलघुवृत्तिः
व्यर्थे भृशादेः स्तोः | ३ | ४ । २९ ।
भृशादेः कर्तुश्च्व्यर्थे क्यङ् वा स्यात्, यथासम्भवं स्तोलुकू च । भृशायते, उन्मनायते, वेहायते । कर्तुरित्येव ? अभृशम्भृशं करोति । च्व्यर्थ इति किम् भृशो भवति ॥ २९ ॥
[ २१९] TM
डाच् - लोहितादिभ्यः षित् | ३ | ४ | ३० । डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे क्य 'चित् स्यात् । पटपटायति, पटपटायते । लोहितायति, लोहितायते । कर्तुरित्येव ? अपटपटा पटपटा करोति । व्यर्थ इत्येव ! लोहितो भवति ॥ ३० ॥
कष्ट कक्ष- कृच्छ्र-सत्र- गहनाय पापे क्रमणे । ३ । ४ । ३१ ।
एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे क्य स्यात् । कष्टायते, कक्षायते, कृच्छ्रायते, सत्रायते गहनायते । चतुर्थीति किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? कष्टाय तपसे क्रामति ॥ ३१ ॥
रोमन्थाद् व्याप्याद् उच्चर्वणे । ३ । ४ । ३२ ।
अभ्यवहृतं द्रव्यं रोमन्थः, उद्गीर्य चर्वणमुच्चर्वणम्, अस्मिन्नर्थे रोमन्थात् कर्मणः क्यङ् वा स्यात् । रोमन्थायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥ ३२ ॥ फेनोष्म वाष्प - धूमाद् उदमने | ३ | ४ | ३३ |
एभ्यः कर्मभ्य उद्बमनेऽर्थे क्यङ् वा स्यात् । फेनायते,
१ क्यक्ष् प्रत्ययः स्यादित्यर्थः । " क्यषो नवा” ( ३-३-४३ पृ० १९९) इतिविशेषणार्थ षकारो ज्ञेयः । लोहितादिराकृतिगणः ।